||Sundarakanda ||

|| Sarga 22||(Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकाण्ड्
अथ द्वाविंशस्सर्गः

सीतायावचनं श्रुत्वा परुषं राक्षसाधिपः।
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्॥ 1||

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा।
यथा यथा प्रियं वक्ता परिभूत स्तथा तथा॥2||

सन्नियमेच्छति मे क्रोथं त्वयि कामः समुत्थितः।
द्रवतऽमार्ग मासाद्य हया निव सुसारथिः॥3||

वामः कामो मनुष्याणां यस्मिन् किल निबध्यते।
जने तस्मिन् स्त्वनुक्रोश स्नेहश्च किल जायते ||4||

एतस्मात् काराणान् न त्वां घातयामि वरानने।
वधार्हां अवमानार्हां मिथ्या प्रव्रजिते रताम्॥5||

परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्।
तेषु तेषु वधोयुक्तः तव मैथिलि दारुणः॥6||

एवमुक्त्वातु वैदेहीं रावणो राक्षसाधिपः।
क्रोधसंरम्भ संयुक्तः सीतां उत्तरमब्रवीत्॥7||

द्वौमासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः।
तत श्शयनमारोह ममत्वं वरवर्णिनी ||8||

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मा मनिच्छतीम्।
मम त्वां प्रातराशार्थं आलभन्ते महानसे॥9||

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीं।
देवगन्धर्वकन्याः विषेदुर्विकृतेक्षणाः॥10||

ओष्ठप्रकारैः अपरा वक्त्रनेत्रै स्तथाऽपरे |
सीतां आश्वासयामासुस्तर्जितां तेन रक्षसा॥11||

ताभिराश्वासिता सीता रावणम् राक्षसाधिपम्।
उवाचात्महितं वाक्यं वृत्त शौण्डीर्य गर्वितम्॥ 12||

नूनं नते जनः कश्चित् अस्ति निश्श्रेयसे स्थितः।
निवारयति यो न त्वाम् कर्मणोऽस्मात् विगर्हितात्॥13||

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः।
त्वदन्यः त्रिषु लोकेषु प्रार्थये न्मनसाऽपि कः॥14||

राक्षसाधम रामस्य भार्यां अमित तेजसः।
उक्तवानपि यत्पापं क्व गत स्तस्य मोक्ष्यसे॥15||

यथा दृप्तश्च मातङ्गः शश श्च सहितो वने।
तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः॥16||

स त्वं इक्ष्वाकुनाथं वै क्षिपन्निहन लज्जसे।
चक्षुषोर्विषयं तस्य न ताव दुपगच्छसि॥17||

इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गळे |
क्षितौ न पतिते कस्मान्मामनार्य निरीक्षितः॥18||

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च।
कथं व्याहरतो मां तेन जिह्वा व्यवसीर्यते॥19||

असंदेशात्तु रामस्य तपसश्चानुपालनात्।
न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा॥20||

नापहर्तु महं शक्या त्वया रामस्य धीमतः।
विधिस्तव वधार्धाय विहितो नात्र संशयः॥21||

शूरेण धनदभ्रात्रा बलै स्समुदितेन च।
अपोह्या रामं कस्माद्धि दारचौर्यं त्वया कृतम्॥22||

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः।
विवृत्य नयने क्रूरे जानकी मन्ववैक्षत॥23||

नीलजीमूत संकाशो महाभुजशिरोधरः।
सिंहसत्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः॥24||

चलाग्रमकुटप्रांशुः चित्रमाल्यानुलेपनः।
रक्तमाल्याम्बरधरः तप्तांगद विभूषणः॥25||

श्रोणि सूत्रेण महता मेचकेन सुसंवृतः।
अमृतोत्पादनद्देन भुजगेनैव मन्दरः॥26||

ताभ्यां परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।
शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मंदरः॥27||

तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः।
रक्तपल्लवपुष्पाभ्यां अशोकाभ्यां इवाचलः॥28||

सकल्पवृक्षप्रतिमो वसंत इव मूर्तिमान्।
श्मशानचैत्यप्रतिमो भूषितऽपि भयंकरः॥29||

अवेक्षमाणो वैदेहीं कोपसंरक्त लोचनः।
उवाच रावणः सीतां भुजङ्ग इव निश्श्वसन्॥30||

अनयेनाभिसंपन्नम् अर्थहीनं अनुव्रते।
नाशया म्यहमद्य त्वां सूर्यः सन्ध्या मिवौजसा॥31||

इत्युक्त्वा मैथिलीं राज रावणः शत्रु रावणः।
संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः॥32||

एकाक्षीं एककर्णां च कर्णप्रावरणं तथा।
गोकर्णीं हस्तिकर्णीं च लम्बकर्णीं अकर्णिकाम्॥33||

हस्ति पाद्यश्वपाद्यौ च गोपादीं पादचूळिकम्।
एकाक्षीं एकपादीं च पृथुपादीं अपादिकाम्॥34||

अतिमात्र शिरो ग्रीवां अतिमात्र कुचोदरीम्।
अतिमात्रस्य नेत्रां च दीर्घजिह्वां अजिह्विकाम्॥35||

अनाशिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्।
यथा मद्वशगा सीता क्षिप्रं भवति जानकी॥36||

तथा कुरुत राक्षस्यः सर्वां क्षिप्रं समेत्य च।
प्रतिलोमानु लोमैश्च सामदानादि भेदनैः॥37||

अवर्जयत वैदेहीं दण्डस्योद्यमनेनच।
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः॥38||

काममन्युपरीतात्मा जानकीं पर्यतर्जयत्।
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी॥39||

परिष्वज्य दशग्रीवं इदं वचनमब्रवीत्।
मयाक्रीड महाराज सीतया किं तवानया॥40||

विवर्णया कृपणया मानुष्या राक्षसेश्वर।
नूनं अस्या महाराज न दिव्यान् भोगसत्तमान्॥41||

विददधात्यमरश्रेष्ठः तव बाहुबलार्जितान्।
अकामं कामयानस्य शरीरमुपतप्यते॥42||

इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना।
एवमुक्तस्तु राक्षस्या समुत्‍क्षिप्त स्ततो बली॥43||

प्रहसन्मेघ सङ्काशो राक्षसः स न्यवर्तत।
प्रस्थितः स दशग्रीवः कंपयन्निव मेदिनीम्॥44||

ज्वलद्भास्करवर्णाभां प्रविवेश निवेशनम्।
देवगन्धर्व कन्याश्च नागकन्याश्च सर्वतः।
परिवार्य दशग्रीवं विविशु स्तं गृहोत्तमम् ||45||

स मैथिलीं धर्मपरां अवस्थिताम्
प्रवेपमानां परिभर्त्स्य रावणः।
विहायसीतां मदनेन मोहितः
स्वमेव वेश्म प्रविवेश भास्वरम्॥46||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे द्वाविंशस्सर्गः॥

|| ओम् तत् सत्॥

|| Om tat sat ||